(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.61. अध्यायः 061
Mahabharata - Shalya Parva - Chapter Topics
भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम्॥ 1 ॥ कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम्॥ 2 ॥ युधिष्ठिरस्य कृष्णेन भीमेन च संलापः॥ 3 ॥


Mahabharata - Shalya Parva - Chapter Text

धृतराष्ट्रा उवाच। 9-61-0x(5236)(63574)
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः।
किमब्रवीत्तदा सूत बलदेवो महाबलः॥ 9-61-1(63575)
गदायुद्धविशेषज्ञो गदायुद्धविशारदः।
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय॥ 9-61-2(63576)
सञ्जय उवाच। 9-61-3x(5237)
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्।
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली॥ 9-61-3(63577)
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः।
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह॥ 9-61-4(63578)
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे।
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः॥ 9-61-5(63579)
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः।
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते॥ 9-61-6(63580)
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्।
[ततो राजानमालोक्य रोषसंरक्तलोचनः।
बलदेवो महाराज ततो वचनमब्रवीत्॥ 9-61-7(63581)
न चैष पतितः कृष्ण केवलं मत्समोऽसमः।
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते॥] 9-61-8(63582)
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली॥ 9-61-9(63583)
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः।
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः॥ 9-61-10(63584)
`भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः।
न विव्यथे महाराज दृष्ट्वा हलधरं बली'॥ 9-61-11(63585)
अथ रामं निजग्राह केशवो विनयान्वितः।
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली॥ 9-61-12(63586)
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा।
`सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ।
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये॥ 9-61-13(63587)
उवाच चैनं संरब्धं शमयन्निव केशवः॥ 9-61-14(63588)
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा।
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः॥ 9-61-15(63589)
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत्।
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्॥ 9-61-16(63590)
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः।
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्॥ 9-61-17(63591)
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत्॥ 9-61-18(63592)
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे।
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले॥ 9-61-19(63593)
मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा।
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप।
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन्॥ 9-61-20(63594)
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः।
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ॥ 9-61-21(63595)
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित्॥ 9-61-22(63596)
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति।
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः॥ 9-61-23(63597)
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्।
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते॥ 9-61-24(63598)
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्।
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम्॥ 9-61-25(63599)
कृष्ण उवाच। 9-61-26x(5238)
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः।
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः॥ 9-61-26(63600)
प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च।
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः।
`ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे॥ 9-61-27(63601)
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे।
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम्॥ 9-61-28(63602)
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम्।
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत्॥ 9-61-29(63603)
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम्।
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम्॥ 9-61-30(63604)
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः।
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः॥ 9-61-31(63605)
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम्।
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः॥ 9-61-32(63606)
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः।
बिभेद गदया चोरू न स्थाने न च मण्डले'॥ 9-61-33(63607)
सञ्जय उवाच। 9-61-34x(5239)
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते।
नैव प्रीतमाना रामो वचनं प्राह संसदि॥ 9-61-34(63608)
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्।
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः॥ 9-61-35(63609)
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्।
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः॥ 9-61-36(63610)
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च।
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः।
`स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः'॥ 9-61-37(63611)
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्।
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति॥ 9-61-38(63612)
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते।
रामे द्वारवतीं याते नातिप्रमनसोऽभवन्॥ 9-61-39(63613)
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्।
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम्॥ 9-61-40(63614)
वासुदेव उवाच। 9-61-41x(5240)
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे।
हतबन्धोर्यदेतस्य पतितस्य विचेतसः॥ 9-61-41(63615)
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा।
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप॥ 9-61-42(63616)
युधिष्ठिर उवाच। 9-61-43x(5241)
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः।
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये॥ 9-61-43(63617)
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्।
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम्॥ 9-61-44(63618)
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते।
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम्॥ 9-61-45(63619)
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्।
लभतां पाण़्डवः कामं धर्मोऽधर्मोऽथवा कृतः॥ 9-61-46(63620)
सञ्जय उवाच। 9-61-47x(5242)
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे।
वासुदेवो महाबाहुर्युधिष्ठिरमभाषत।
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः॥ 9-61-47(63621)
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया।
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि॥ 9-61-48(63622)
`अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना।
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा'॥ 9-61-49(63623)
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः।
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः॥ 9-61-50(63624)
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्।
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते॥ 9-61-51(63625)
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका।
तां प्रशाधि महाराज स्वधर्ममनुपालय॥ 9-61-52(63626)
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः।
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते॥ 9-61-53(63627)
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः।
राधेयः शकुनिश्चैव हताश्च तव शत्रवः॥ 9-61-54(63628)
सेयं रत्नसमाकीर्णा मही सवनपर्वता।
उपावृत्ता महाराज त्वामद्य निहतद्विषम्॥ 9-61-55(63629)
युधिष्ठिर उवाच। 9-61-56x(5243)
गतो वैरस्य निधनं हतो राजा सुयोधनः।
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा॥ 9-61-56(63630)
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः।
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः॥ ॥ 9-61-57(63631)

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकषष्टितमोऽध्यायः॥ 61 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-61-15 आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः॥ 9-61-16 यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति क.पाठः॥ 9-61-19 भक्ता भङ्क्ष्ये॥ 9-61-21 यौनः योनिनिमित्तः सम्बन्धः। अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः॥ 9-61-22 सीरभृत् रामः॥ 9-61-23 धर्मइति। नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्सर्थः॥ 9-61-24 धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः॥ 9-61-25 कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्ये॥ 9-61-27 कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः॥ 9-61-41 अधर्ममनुपश्यसीति क.छ.पाठः॥ 9-61-46 धर्मोऽधर्मे च वा कृते इति झ.पाठः॥ 9-61-62 एकषष्टितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.